Thursday 9 July 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
अद्य शीघ्रम् एव स्नानं करणीयम् आसीत्
= आज जल्दी से नहाना था ।
{ स्नातव्यम् आसीत् = नहाना था }
∆ किमर्थम् ?
= क्यों
अद्य सा मातुः गृहात् आगमिष्यति
= आज वह मायके से आएगी ।
∆ तर्हि शीघ्रं स्नानं क्रियते खलु ?
= तो शीघ्र स्नान करते हैं क्या ?
भवान् न जानाति
= आप नहीं जानते हैं ।
सा आगत्य सर्वं जलं समापयिष्यति
= वह आकर के सारा पानी ख़त्म कर देगी
∆ कथम् ? = कैसे ?
सा सर्वाणि वस्त्राणि प्रक्षालयिष्यति
= वह सारे वस्त्र धोएगी
सा सर्वाणि पात्राणि प्रक्षालयिष्यति
= वो सारे बर्तन धोएगी
सा सम्पूर्णम् गृहं प्रक्षालयिष्यति
= वह सारा घर धोएगी ।
तर्हि जलं तु समाप्तम् भविष्यति
= तो फिर पानी तो समाप्त हो जाएगा
अतः बहु शीघ्रं स्नानं कृतवान्
= इसलिए जल्दी नहा लिया ।
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
~~~~~~~~~~~~
माता - बहिः कः अस्ति ?
= बाहर कौन है ?
बालकः - बहिः अहम् अस्मि ।
= बाहर मैं हूँ ।
माता - तर्हि अन्तः कः अस्ति ?
= तो फिर अन्दर कौन है ?
बालकः - अन्तः अहम् अस्मि
= अन्दर मैं हूँ ।
माता ( चिन्तयति )
= ( सोचती है )
( अन्तः अपि अहम् अस्मि , बहिः अपि अहम् अस्मि
= अन्दर भी मैं हूँ , बाहर भी मैं हूँ ।)
माता - सुष्ठु ..... तर्हि ....
= ठीक है .... तो फिर .....
माता - बहिः कः अस्ति ? नाम वद ....
= बाहर कौन है ? नाम बोलो
बालकः - अहम् लवः अस्मि । अहं बहिः अस्मि ।
= मैं लव हूँ । मैं बाहर हूँ ।
माता - अन्तः कः अस्ति ? नाम वद .....
= अन्दर कौन है ? नाम बोलो
बालकः - अहम् कुशः अस्मि । अहम् अन्तः अस्मि ।
= मैं कुश हूँ । मैं अन्दर हूँ ।
लवकुशौ द्वौ यमजौ भ्रातरौ स्तः
= लव-कुश दोनों जुड़वाँ भाई हैं ।


No comments:

Post a Comment