Tuesday 16 June 2015

संस्कृत वाक्य अभ्यासः
एकं रुग्णं मेलितुं तस्य मित्राणि चिकित्सालयम् अगच्छन्
= एक रोगी को मिलने उसके मित्र चिकित्सालय गए ।
यस्मिन् प्रकोष्ठे सः रुग्णः आसीत्
= जिस कमरे में वह रोगी था
तस्मात् बहिः एका सूचना लम्बिता आसीत्
= उसके बाहर एक सूचना लटकी थी
रुग्णस्य परिस्थितिः बहु गम्भीरा अस्ति
= रोगी की हालत बहुत गंभीर है ।
अतः कोsपि तं मेलितुं न शक्नोति
= इसलिये रोगी को कोई मिल नहीं सकता
रुग्णस्य स्वास्थ्यं सम्यक् नास्ति
= रोगी का स्वास्थ्य ठीक नहीं है
रुग्णं मेलितुम् अनुमतिः नास्ति
= रोगी को मिलने की अनुमति नहीं है
सर्वे अभ्यागताः प्रत्यगच्छन्
= सभी मुलाकाती लौट गए ।
रुग्णस्य सर्वाणि मित्राणि चिन्तितानि आसन्
= रोगी के सभी मित्र चिन्ता में थे ।
सर्वे तस्य स्वास्थ्यलाभार्थम् प्रार्थनां कृतवन्तः
= सभी ने उसके स्वास्थ्य लाभ की प्रार्थना की ।

No comments:

Post a Comment