Tuesday 30 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
ततः धूम्रः निर्गच्छति
= वहाँ से धुंआँ निकल रहा है ।
किमपि दहति वा ?
= कुछ जल रहा है क्या ?
पश्यामि ? = देखता हूँ ।
ओह , सा सुगन्धवर्तिकां प्रज्ज्वालितवती
= ओह , उसने अगरबत्ती जलाई है ।
तस्य उपरि एकं करवस्त्रं पतितम्
= उसके ऊपर एक रूमाल गिर गया ।
अधुना करवस्त्रं दहति
= अब रूमाल जल रहा है ।
अग्निम् निर्वापयामि अहम्
= मैं आग बुझाता हूँ ।
न निर्वापयामि चेत् अग्नि: प्रसरिष्यति
= नहीं बुझाऊँगा तो आग फ़ैल जाएगी
अनवधानेन अग्निकाण्डा: भवन्ति
= लापरवाही से आग लगने की घटनाएँ घटती हैं
दीपं प्रज्ज्वालयामः वा यज्ञम् कुर्मः
= दीपक जलाते हैं या यज्ञ करते हैं
तदा ध्यानं देयं भवति
= तब ध्यान देना होता है ।
=============================
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
विश्वविद्यालयस्य परिसरे द्वौ छात्रौ वार्तालापं कुरुतः
= विश्वविद्यालय के परिसर में दो छात्र बात करते हैं
सोमेन्द्रः - चल आवां पानगृहं चलावः
= चलो , हम दोनों कॉफे चलते हैं ।
सत्येशः - किमर्थं पानगृहम् ??
क्यों कॉफे ??
सोमेन्द्रः - कॉफ़ी पास्यावः
= कॉफ़ी पियेंगे ।
सत्येशः - कॉफ़ी तु अत्र अपि मिलति
= कॉफ़ी तो यहाँ भी मिलती है ।
सत्येशः - पादमार्गे तस्य मूल्यं केवलं दश रूप्यकाणि एव
= फुटपाथ पर उसकी कीमत केवल दस रूपया है ।
सोमेन्द्रः - पानगृहे अहं पाययामि
= कॉफे में मैं पिलाता हूँ ।
सत्येशः - बहु अधिकं धनम् आगतं खलु तव कोषे ?
= तुम्हारी जेब में बहुत अधिक धन आ गया है क्या ?
सत्येशः - पश्य , तत्र श्रमिकाः कार्यम् कुर्वन्ति
= देखो , वहाँ मजदूर काम कर रहे हैं ।
सत्येशः - तान् पायय
= उनको पिला दो ।
सत्येशः - आवाम् अपि पिबावः , ते अपि पास्यन्ति
= हम दोनों भी पीते हैं , वे भी पियेंगे
सत्येशः - धनं तु तावन्तम् एव देयं भविष्यति
= पैसे तो उतने ही देने होंगे ।
सोमेन्द्रः - उत्तमा युक्तिः
= good idea
==============================
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
एकः स्थूलः प्रौढ़: च तस्य वेदानां वदति
= एक मोटा प्रौढ़ अपनी वेदना कहता है ।
ओह ..... आह ..... बहु कष्टम् अस्ति
= बहुत कष्ट है ।
एक वारम् उपविशामि अनन्तरम्
= एक बार बैठता हूँ उसके बाद
उत्थापने बहु कष्टम् भवति
= खड़े होने में बहुत कष्ट होता है ।
सन्धिषु बहु पीड़ा भवति
= जोड़ों में बहुत दर्द होता है ।
चूर्णस्य अपि न्यूनता वर्तते
= चूने की भी कमी है ।
मम भारः अपि अधिकः अस्ति
= मेरा वजन भी अधिक है ।
अधुना भारं न्यूनीकर्तुम् अहं प्रयासं करोमि
= अब वजन कम करने के लिए प्रयास कर रहा हूँ ।
तैलीयं पदार्थम् न खादामि
= तेल वाली (तली हुई ) चीजें नहीं खाता हूँ ।
रात्रौ फलानि एव खादामि
= रात में फल ही खाता हूँ ।
तथापि भारः न्यूनः न भवति
= तब भी वजन कम नहीं होता है ।
किं करोमि अहम् ?
= क्या करूँ मैं ?


No comments:

Post a Comment