Saturday 27 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
सः अल्पभाषी अस्ति
= वह कम बोलता है ।
( सः अल्पं वदति )
(सा अल्पभाषिणी अस्ति )
सः मृदुभाषी अस्ति
= वह मृदु भाषी है ।
He is a soft spoken
(सा मृदुभाषिणी अस्ति )
सः बहु मधुरं वदति
= वह बहुत मीठा बोलता है ।
( सा बहु मधुरं वदति )
सः कटुभाषी अस्ति
= वह कटु बोलता है ।
( सा कटुभाषिणी अस्ति )
सः बहुभाषी अस्ति
= वह बहुत बोलता है ।
( सा बहुभाषिणी अस्ति )
सः वाक्पटु: अस्ति
= वह वाक्पटु(वाचाल )है ।
( सा वाक्पटवी अस्ति )
सः स्पष्टवक्ता अस्ति
सा स्पष्टवक्तृणी अस्ति
= वह स्पष्ट बोलने वाला / वाली है ।
===================
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
ह्यः उदरे काचित् पीड़ा भवति स्म
= कल पेट में कुछ दर्द हो रहा था ।
अहं स्वयमेव पानकं निर्मितवान्
= मैंने अपने आप शरबत बनाया ।
पानके किं किं स्थापितवान् ?
= शरबत में क्या क्या डाला ?
पानके निम्बुकस्य रसं मेलितवान्
= शरबत में नीबू का रस मिलाया
पानके गुडं मेलितवान्
= शरबत में गुड़ मिलाया ।
किञ्चित् श्यामलवणं मेलितवान्
= थोड़ा काला नमक मिलाया ।
आर्द्रकस्य अपि रसं मेलितवान्
= अदरक का भी रस मिलाया ।
अनन्तरं अजगन्धस्य पत्राणि स्थापितवान्
= उसके बाद पुदीने के पत्ते डाले ।
अनन्तरम् अहं पानकं पीतवान्
= उसके बाद मैं शरबत पी गया ।
अधुना उदरे बहु शान्तिः वर्तते
= अब पेट में बहुत शान्ति है ।






No comments:

Post a Comment