Sunday 21 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
सः प्रथमवारं योगदर्शनम् अपठत्
= उसने पहली बार योगदर्शन पढ़ा ।
सः तस्य सूत्राणि कण्ठस्थानि करोति
= वह उसके सूत्र कंठस्थ कर रहा है ।
सः प्रतिदिनं दश-दश सूत्राणि स्मरिष्यति
= वह प्रतिदिन दस दस सूत्र याद करेगा ।
योगदर्शने कति सूत्राणि सन्ति
= योगदर्शन में कितने सूत्र हैं ।
योगदर्शने १९५ सूत्राणि सन्ति
= योगदर्शन में 195 सूत्र हैं
योगदर्शने कति पादाः सन्ति
= योगदर्शन में कितने पाद हैं
योगदर्शने चत्वारः पादाः सन्ति
= योगदर्शन में चार पाद हैं ।
( पादः = अध्याय )
पादानां नामानि कानि कानि सन्ति
= पादों के नाम कौन-कौनसे हैं ?
प्रथमः पादः = समाधि-पादः
द्वितीयः-पादः = साधन-पादः
तृतीयः पादः = विभूति-पादः
चतुर्थः पादः = कैवल्य-पादः
महर्षि-पातञ्जलेः योगदर्शनं पठनीयम्
= महर्षि पतंजलि का योगदर्शन पढ़ना चाहिये ।

No comments:

Post a Comment