Saturday 13 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
माता -त्वं कुत्र आसीः
= तुम कहाँ थे ?
पुत्रः - अहम् अत्रैव आसम्
= मैं यहीं था ।
माता - अहं त्वां न दृष्टवती
= मैंने तुमको नहीं देखा ।
पुत्रः - अहम् मम पाठं लिखामि स्म
= मैं अपना पाठ लिख रहा था
माता - किमर्थम् अलीकं वदसि
= क्यों झूठ बोल रहे हो
पुत्रः - नैव मातः , अहं सत्यं वदामि
= नहीं माँ , मैं सच बोल रहा हूँ
माता - कुतः असत्यं सम्भाषणम् अधीतम्
= कहाँ से झूठ बोलना सीखा ।
पुत्रः - अम्ब , सत्य-सम्भाषणम् तु भवत्या एव संस्कारः
= माँ , सच बोलना तो आपका दिया संस्कार है ।
पुत्रः - अहं कथं अलीकं वदिष्यामि
= मैं कैसे झूठ बोलूँगा ।
पुत्रः - हे मातः , यत्र अहम् उपविशामि स्म
= माँ , मैं जहाँ बैठा था
पुत्रः - तत्र भवती शाटिकाम् लम्बितवती
= वहाँ आपने साड़ी लटका दी थी
पुत्रः - तर्हि अहं कथं दृश्ये
= तो मैं कैसे दिखूँगा ।

No comments:

Post a Comment