Tuesday 23 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
माता - वत्स ! तव मुष्टिकायां किम् अस्ति ?
= बेटा ! तुम्हारी मुट्ठी में क्या है ?
पुत्रः - खाद्य-पदार्थः अस्ति
= खाने की चीज है ।
माता - कीदृशः खाद्य-पदार्थः ?
= कैसा खाद्य पदार्थ ?
पुत्रः - दर्शयामि , पूर्वं नेत्रे निमीलयतु
= पहले आँख बन्द करिये ।
पुत्रः - आम् मातः , खादतु
= हाँ माँ , खाईये ।
माता - ओह केवलं द्वे कणे एव
= ओह केवल दो दाने
पुत्रः - किम् अस्ति एतद् ?
= क्या है ये ?
माता - भूचणकः अस्ति
= मूंगफली है ।
माता - कुतः आनीतवान् ?
= कहाँ से लाए ?
पुत्रः - अहं गृहवाटिकायां भूचणकं वपितवान्
= मैंने घर के बगीचे में मूंगफली बोई थी ।
पुत्रः - अद्य भूचणकाः अजायन्त
= आज मूंगफलियाँ पैदा हुई हैं ।
माता - तर्हि त्वम् अपि खाद
= तो फिर तुम भी खाओ ।
================
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
सः बालकः वारं वारं भरकं उद्घाटयति
= वह बच्चा बार बार डब्बा खोलता है
भरके मोदकानि सन्ति
= डब्बे में लड्डू हैं ।
तस्य माता मोदकानि निर्मितवती
= उसकी माँ ने लड्डू बनाए हैं ।
सः बालकः मोदकानि गणयति
= वह बच्चा लड्डू गिनता है ।
सः एकम् अपि मोदकं न खादति
= वह एक भी लड्डू नहीं खाता है ।
तस्य माता तम् उक्तवती यत्
= उसकी माँ ने उसको कहा है कि
परश्व: तव जन्मदिनम् अस्ति
= परसों तुम्हारा जन्मदिन है ।
परश्व: यज्ञम् करिष्यामः
= परसों हवन करेंगे ।
यज्ञे आहुतिम् दास्यामः
= यज्ञ में आहुति देंगे ।
तदनन्तरं यज्ञशेषरूपेण मोदकं खादिष्यामः
= उसके बाद यज्ञशेष के रूप में लड्डू खाएँगे ।
पायसम् अपि निर्मास्यामि
= खीर भी बनाऊँगी ।
सः बालकः बहु प्रसन्न: भवति
= वह बच्चा बहुत खुश होता है ।




No comments:

Post a Comment